51 verses
1अथ योगानुशासनम्
2योगश्चित्तवृत्तिनिरोधः
3तदा द्रष्टुः स्वरूपेऽवस्थानम्
4वृत्तिसारूप्यमितरत्र
5वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः
6प्रमाणविपर्य्यविकल्पनिद्रास्मृतयः
7प्रत्यक्षानुमानागमाः प्रमाणानि
8विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्
9शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः
10अभावप्रत्ययालम्बना वृत्तिर्निद्रा
11अनुभूतविषयासंप्रमोषः स्मृतिः
12अभ्यासवैराग्याभ्यां तन्निरोधः
13तत्र स्थितौ यत्नोऽभ्यासः
14स तु दीर्घकालनैरंन्तर्यसत्कारासेवितो दृढ़भूमिः
15दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्
16तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्
17वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः
18विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः
19भवप्रत्ययो विदेहप्रकृतिलयानाम्
20श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्
21तीव्रसंवेगानामासन्नः
22मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः
23ईश्वरप्रणिधानाद्वा
24क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः
25तत्र निरतिशयं सर्वज्ञबीजम्
26स एषः पूर्वेषामपि गुरुः कालेनानवच्छेदात्
27तस्य वाचकः प्रणवः
28तज्जपस्तदर्थभावनम्
29ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च
30व्याधिस्त्यानसंशयमप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः
31दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः
32तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः
33मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्
34प्रच्छर्दनविधारणाभ्यां वा प्राणस्य
35विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी
36विशोका वा ज्योतिष्मति
37वीतरागविषयं वा चित्तम्
38स्वप्ननिद्राज्ञानालम्बनं वा
39यथाभिमतध्यानाद्वा
40परमाणुपरममहत्त्वान्तोऽस्य वशीकारः
41क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः
42तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः
43स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का
44एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता
45सूक्ष्मविषयत्त्वं चालिङ्गपर्यवसानम्
46ता एव सबीजः समाधिः
47निर्विचारवैशारद्येऽध्यात्मप्रसादः
48ऋतंभरा तत्र प्रज्ञा
49श्रुतानुमानप्रज्ञाभ्यामन्यविषयाविशेषार्थत्वात्
50तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी
51तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः